|| गर्भ रक्षा देवी कवच ||
भगवन् देव देवेशकृपया त्वं जगत् प्रभो ।
वंशाख्य कवचं ब्रूहि मह्यं शिष्याय तेऽनघ ।
यस्य प्रभावाद्देवेश वंश वृद्धिर्हिजायते ॥१॥
सूर्य ऊवाच –
शृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् ।
सन्तानवृद्धिर्यत्पठनाद्गर्भरक्षा सदा नृणाम् ॥२॥
वन्ध्यापि लभते पुत्रं काक वन्ध्या सुतैर्युता ।
मृत वत्सा सुपुत्रस्यात्स्रवद्गर्भ स्थिरप्रजा ॥३॥
अपुष्पा पुष्पिणी यस्य धारणाश्च सुखप्रसूः ।
कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्र प्रभावतः ॥४॥
भूतप्रेतादिजा बाधा या बाधा कुलदोषजा ।
ग्रह बाधा देव बाधा बाधा शत्रु कृता च या ॥५॥
भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः ।
सर्वे रोगा विनश्यन्ति सर्वे बालग्रहाश्च ये ॥६॥
॥ अथ दुर्गा कवचम् ॥
ॐ पुर्वं रक्षतु वाराही चाग्नेय्यां अम्बिका स्वयम्।
दक्षिणे चण्डिका रक्षेन्नैरृत्यां शववाहिनी॥१॥
वाराही पश्चिमे रक्षेद्वायव्याम् च महेश्वरी।
उत्तरे वैष्णवीं रक्षेत् ईशाने सिंह वाहिनी॥२॥
ऊर्ध्वां तु शारदा रक्षेदधो रक्षतु पार्वती।
शाकंभरी शिरो रक्षेन्मुखं रक्षतु भैरवी॥३॥
कण्ठं रक्षतु चामुण्डा हृदयं रक्षतात् शिवा।
ईशानी च भुजौ रक्षेत् कुक्षिं नाभिं च कालिका॥४॥
अपर्णा ह्युदरं रक्षेत्कटिं बस्तिं शिवप्रिया।
ऊरू रक्षतु कौमारी जया जानुद्वयं तथा॥५॥
गुल्फौ पादौ सदा रक्षेद्ब्रह्माणी परमेश्वरी।
सर्वाङ्गानि सदा रक्षेद्दुर्गा दुर्गार्तिनाशनी॥६॥
नमो देव्यै महादेव्यै दुर्गायै सततं नमः ।
पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व नः॥७॥
ॐ ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं
महाकाली महालक्ष्मी महासरस्वती
रुपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥ ८॥
ह्रीं ह्रीं ह्रीं दुर्गार्तिनाशिनी संतानसौख्यम्
देहि देहि बन्ध्यत्वं मृतवत्सत्वं च हर हर
गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां
बाह्यजां कृतामकृतां च नाशय नाशय
सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय
सर्वोपद्रवं शोषय शोषय स्वाहा ॥ ९॥
॥ फल श्रुतिः ॥
अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितम् ।
ऋतुस्नात जलं पीत्वा भवेत् गर्भवती ध्रुवम्॥१॥
गर्भ पात भये पीत्वा दृढगर्भा प्रजायते ।
अनेन कवचेनाथ मार्जिताया निशागमे॥२॥
सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः।
अनेन कवचेनेह ग्रन्थितं रक्तदोरकम् ॥३॥
कटि देशे धारयन्ती सुपुत्रसुख भागिनी।
असूत पुत्रमिन्द्राणां जयन्तं यत्प्रभावतः॥४॥
गुरूपदिष्टं वंशाख्यम् कवचं तदिदं सुखे ।
गुह्याद्गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः॥५॥
धारणात् पठनादस्य वंशच्छेदो न जायते ।
बाला विनश्यंति पतन्ति गर्भा-
-स्तत्राबलाःकष्टयुताश्च वन्ध्याः ॥६ ॥
बाल ग्रहैर्भूतगणैश्च रोगै-
-र्न यत्र धर्माचरणं गृहे स्यात् ॥
॥ इति श्री ज्ञान भास्करे वंश वृद्धि करं
वंश कवचं सम्पूर्णम् ॥